पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् ।

कर्पूरायितसैकताय शिशिरक्षोदायमानातप-
व्यूहाय व्यजनानिलायितमहाझ्ज्झामरुद्रं हसे ।
अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो-
त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ॥ ३९ ॥
निंसाने सरसं कपोलफलकं बिम्बाधरं बाधय-
त्याश्लिष्यत्यपि संमति विमतिमप्याहत्य नैव व्यनक् ।
नीवीं जीवितवल्लभे शिथिलयत्युद्ग्रीविकां तन्वती
सद्रीची जनरूपणाय मृगदृक्प्रत्यग्रमन्वग्रहीत् ॥ ४०॥
रागस्तादृश एव दन्तवसने तादृक्स्तने स्थासको
धम्मिल्लोऽपि तथाविधो विसदृशं नो वा दृशोरञ्जनम् ।
किं त्वन्तः प्रचलायितं दरचलच्छोणाड्ड्य संवर्तिका-
कारं चक्षुरनक्ति वल्लभसमास्वादावतीर्णामिमाम् ॥ ४१ ॥
आदाय स्वयमेतदीयविषयं नासाग्रदेशं दृशौ
तन्मुक्ताफलकं कपोलफलके पर्यस्यदश्रुच्छलात् ।
सोऽप्येवं परिगृह्य पाणिशिखरं वामभ्रुवो विभ्रमा-
त्तन्मुद्रागतपद्मरागमनयोरेवोपरि न्यस्तवान् ॥ ४२ ॥
अत्याक्षीत्करमाशु कम्बुवलयो जातं विहस्तं मन-
स्तत्कामेन शरैः क्षतं नयनयोरासीत्पुनः सात्रता ।
ते स्वान्तर्गतमञ्जनं व्यजहतां काञ्ची बभूवाध्वनिः
सा प्रौज्झज्जघनं बभावजघनस्तापस्तु तस्यास्तनौ ॥ ४३ ॥
बक्षोजद्वयकुम्भसीम्नि करयोनोर्विसंवादिनो-
र्भग्ने दामनि पद्मरागगुलिका व्याकीर्यमाणा बभुः ।
आचार्यप्रवरेण नव्यवयसा सूत्रेण गर्भीकृता
नीता भाष्यकृतास्मरेण बहुतां हृद्भागभावा इव ॥ ४४ ॥
नवतरुणिमा सोद्रेकोष्मा महांस्तपवासरः
कचमयतनुर्धम्मिल्लोऽसावकालबलाहकः ।