पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् ।

हेलाविध्वस्तमध्वाकुलबकुलकुलाश्चम्पकोत्कम्पकोष-
प्रत्यामर्शाप्ततर्षाः परिमिलितदलन्मल्लिकावल्लिकायाः।
कुन्दावस्कन्दमन्दा बहुविहितपरिस्यन्दमाकन्दवृन्दाः
खेदाम्भोबिन्दुसान्द्रं तव नवपवना देहमालादयन्तु ॥ २६ ॥
भुजो बिसचये नवे किसलये च बिम्बाधरो
वरोरु हसितं विधो रुचि सरोरुहे लोचनम् ।
भ्रुवौ मदनकार्मुके रजनिकामुके ते मुखं
दिशन्ति कुसुमे घृणामवयवाः सुमेरौ कुचौ ॥ २७ ॥
माकन्दप्रसवोल्लसत्परिमलग्रस्यन्दिमन्दानिल
व्यस्तैकाञ्चलयापि कञ्चलिकया विस्र स्तसंदानितौ ।
त्वद्वक्षोरुहजातरूपकलशौ रम्भोरु संभावितौ
साकल्येन विलोकनादपि चमत्कारं दधाते दृशोः ॥ २८ ॥
बिभ्राणे विभ्रमेणोद्वलितललिततामञ्जनासञ्जनेन
व्यञ्जाने खञ्जनादप्यधिकमधुरता कञ्जवन्मञ्जुभूते ।
मय्युत्खेदे निदापात्प्रतियुबतिरतिनान्तिभाराद्धजन्त्या
भुग्नीभावं ध्रुवा ते वरतनु नयने कौतुकं मे सुवाते ॥ २९ ॥
गञ्चलवशंवदः कमल (१) शम्बरद्वेषिणो
गुणत्वपदशालिनः पुनरिहोभयत्रालिनः ।
कचैरसुवचैः समं तव तुलार्थिनो वातुला-
श्चिरेण मदिरेक्षणे जगदिरे द्विरेफा इति ॥ ३० ॥
त्वदोष्ठे वर्तिष्णावरुणिमनि मैत्रावरुणिना-
प्यवाच्या बिम्बाभा तरुणिममहस्युत्तरुणिते ।
गिरा जीवस्यापि प्रचरति पराजीवनकृता
तुला सम्राजीव क्व तव दृशि राजीवसमता ॥ ३१ ॥
धारावाहिकबाह्यनिर्गतरसं दृग्युग्ममभ्यन्तरा-
वच्छिन्नाग्निशिखान्वयं च हृदयं दूरं भवत्यागते ।