पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला अहं पापी पापक्षपणनिपुणः शंकर भवा- नहं भीतो भीताभयवितरणे ते व्यसनिता। अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितर- न्न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९ ।। इति परिहृतवान्स्वकाव्यशिल्पप्रकटनमाकुलितो भवव्यथाभिः । व्यधित गिरिश रम्यदेवजन्मा तव पुरतो हठदैन्यतः प्रलापान् ॥ ५० ॥ एतत्तीव्रं व्रतमुपचितं सैकते सिद्धसिन्धो- वाराणस्यां शमदमदृशोरेष गाढोऽनुबन्धः । दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ॥ ५१ ॥ अभ्रंशे जन्म वंशे सुमहति विहितो वामयाब्धौ हनूम- त्संरम्भो दानभोगौ तदनु व रचितौ किंचिदौचित्यरीत्या । ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ।। ५२ ॥ ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं यच्चुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्यं न किम् । एतावत्स्खलितं क्षमस्व भगवन्भूयोऽपि तुभ्यं शपे श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ।। ५३ ।। नासत्यव्यतिरेकतोऽक्षरमपि प्राङ्युक्त यद्भारती नैवान्यत्परबाघतो यदसकृत्संचिन्तितं चेतसा । नाकृत्यादितरत्र गात्रमतनोच्चेष्टां यथेष्टां च य- त्सर्वत्रापि मया त्वमेव शरणं तत्राश्रितो धूर्जटे ॥ ५४ ॥ इति लोष्टीकभट्टविरचितं दीनाक्रन्दनस्तोत्रं समाप्तम् । १. ख-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति. २. 'देवरम्यजन्मा' इति ख-पाठः. ३. 'प्रलापम्' इति ख-पाठ.. ४. 'एतत्तीव्रत' इति क-पाठः, ५. 'शमद- मदिशो' इति ख-पाठ. ६. ख-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति. ७. "प्र- सिद्धा' इति ख-पाठः, ८. 'नु' इति क-पाठः १. 'नौचित्यादितरत्र' इति क-पाठा. १० 'तत्राश्रिता जाह्ववी' इति ख-पाठः, ११. 'पण्डितभट्टलोष्टकविरचितं' इति कापाठः