पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् । भदृश्रीकृष्णबल्लभकविप्रणीत काव्यभूषणशतकम् ।

हेरम्बस्य कपोलसीम्नि मलिनां मालामलीनां घना-
मालोक्य प्रतिबिम्बितां हरशिरोगङ्गातरङ्गोपरि ।
न्यस्तानेन कलिन्दजापि शिरसीतीर्ष्याकुलाया मरू-
दुल्गल्कोकनदच्छदच्छविभृतो देव्या दृशः पान्तु वः ॥ १॥
श्रीकृष्णे सत्यभामाकुचकलशभुवि स्फीतमातङ्गकुम्भो-
तुङ्गायां पारिजातस्रजमुपनयति प्रेमभाजा करेण ।
तस्मिञ्जम्भाभियातिद्विरदकरधिया विस्मृतेर्ष्यारसाया
रुक्मिण्याः क्लान्तभङ्गावलिललितरुचः पान्तु दृग्भङ्गयो वः ॥२॥
नालीकस्य प्रणाली कलयति नयनं निन्हुते चान्द्रमस्याः
शोभायाः सान्द्रमस्या वदनमपि मदं गोधिरर्धेन्दुरोधी ।
संबिभ्राते ध्रुवावप्यसमशरधनुर्बिभ्रमं भासि भव्या
सौमेरव्याः स्तनश्रीनवजलदलतापेशलः केशपाशः ॥ ३ ॥
तत्पाणिप्रतिषिध्यमानरभसाक्षेपस्खलन्मत्कर-
व्यापारप्रथमानकङ्कणझणत्काराभिरामोदयः ।
आविर्भावलवोल्लसत्कुचरुचिप्रस्तारविस्तारित-
प्रस्तावव्यतिरेकविधुदुदयो लभ्येत सभ्यः क्षणः ॥ ४ ॥
श्रीखण्डान्वयभाजि वाति मरुति प्रत्यङ्गनाभिः समं
पश्यन्तीषु सखीषु दैववशतो नेदीयसि प्रेयसि ।
उद्ग्राहोर्ग्रहणेच्छया सुमनसां वामभ्रुवः संभ्रमा-
द्वक्षोजावरणस्य यत्प्रकरणं तत्किं गिरां गोचरः ॥ ५॥
पर्यञ्चत्केशपाशं चलदलकलतं मन्दविस्पन्दतारं
स्वेदाम्भोबिन्दुजालस्तबकितपुलकोच्छासिताम्यत्कपोलम् ।


१, इन्द्रहस्ती. २. ललाटम्. ४१० गु०