पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दीनाक्रन्दनस्तोत्रम् ।

वातूलतामुपगतोऽस्मि तवानुरागा-
द्धा दुःसहस्त्वयि ममैष हढोऽनुरागः ॥ १३ ॥
कण्ठेऽर्पयत्युरगपाशमसूयया में
यामिन्यधीशशिख यत्समये कृतान्तः ।
नूनं तदा मुहुरुपैमि फणीन्द्रहार
त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ ४४ ॥
चित्तं न पारदमिव क्षणमुज्झतीदं
चाञ्चल्यविप्लवमयुक्तिविदः प्रभो मे ।
तस्मात्कथं भवति भक्तिरसस्य सिद्धिः
कस्तां विना च भव घोरविपद्विनाशः ॥ ४५ ॥
स्वामिन्ननुद्गतविवेकलवोऽकृतात्मा
तिर्यग्वदेव दिवसानतिवाहयामि ।
नेता क्षणाच्च वशमन्तकसौनिको मा-
माशैव तन्मम कुतः सुगतिप्रसक्त्यै ।। ४६ ॥
दुःस्वप्न एव विषमो भवदुःखनामा
खामिन्कथं त्यजति मां विगतप्रबोधम् ।
यस्मान्ममानवरतश्रुतभूरिशास्त्र-
तूर्यस्वनैरपि न शाम्यति मोहनिद्रा ॥ ४७ ।।
कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनो
वेश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु ।
लोभोऽकारि मया धने न सुकृते तेनानुतप्ये मह-
किं शक्यं मम तत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ १८ ॥


१. 'वातूलतामिव गतोऽस्मि' इति ख-पायः. २. 'त्वत्तुल्यतामिव' इति क-पाठः. 'पारतमित्र' इति पुस्तकद्वयेऽपि पाठः, काश्मीरकाः 'पारद' इत्यस्य स्थाने 'पारत' इत्येव सर्वत्र पठन्ति. ४. 'कस्वां' इति क-पाठ.. ५. 'विरामः' इति क-पाठः. ६. 'खगति' इति ख-पाठः. ७. 'वैवश्याल्लडितं' इति क-पाठः ६. 'तत्र संप्रति पुनर्नाथ ' इति क पाठः