पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

लीनेन भूरिविषयाध्वनि सौख्यलोभा-
नामापि मोहितधिया कलितं न मृत्योः ।
आसीदतः सपदि तद्भयतो मया किं
शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८॥
या विक्रिया यमभटभ्रुकुटिच्छटानां
पीडाश्च या नवनवा नरकावनीषु ।
ता निर्विशन्भव कथं भवितास्म्यमुत्र
कुत्र ब्रजामि शरणं कतरं प्रपद्ये ॥ ३९ ॥
स्मृत्वाप्यहो रविजविकृतहुंकृतीनां
मुशामि यामि विलयं भयविहलामा ।
आसन्नमेवमहहा विषम पुरस्ता-
तत्का गतिर्मम कुकर्मनिमग्नवृत्तः ॥ १०॥
आसन्नपाफ्शतसंभृतघोरपीडः
क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते ।
तस्मात्कथं न दयसे स्वरितं कुतश्चि-
दागत्य विश्वमय सान्त्वय मां वराकम् ॥ ४१ ॥
पश्यन्समानवयसोऽपि यवीयसोऽपि
नक्तंदिवं यमभदैरपि नीयमानान् ।
आत्मन्यभूवमजरामरताभिमानी
यद्विशवादकरवं न शुभं कदाचित् ।। ४२॥
द्वारे लुठामि करुणं मलपामि शंभो
वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् ।

१. 'विधेयमहहा' इति ख-पाठः, २. 'या यातनाश्च विषमा नरकावनीषु' इति क-पाठः. ३. 'कृतरत्' इति क-पाठः, ४. 'हुंक्रियाणां' इति क-पाठः, ५. 'निमग्नमूर्तेः' इति क-पाठः, ६. 'उदय' इति क-पाठः, ५. 'यमभटैरपनीयमानान्' इति स-पाठ..