पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

plus . दीनाक्रन्दनस्तोत्रम् ।

मृत्युर्यदा मम भयाय पतत्यकस्मा
दन्धस्य बन इव हस्ततलप्रहारः ॥ ३२ ।।
आर्तिक्षणे सपदि विस्मरतात मात-
रित्यादिकं च विफलं कृपणप्रलापम् ।
शर्वेश शंकर शिवेति नुतिं भजस्व
जिह्वे यतो विघटतेऽखिलदुःखभारः ॥ ३३ ॥
खास्थ्ये मदात्कति न दुश्चरितानि नाम
नाथ व्यथां गतविवेकतया विशङ्कः ।
संस्मृत्य मृत्युभयमद्य तु विह्वलोऽसि
श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४ ॥
पूर्वं न चेद्विरचिता तव देव सेवा
"तेनैव नैव दयसे श्रयतो ममार्तिम् ।
किं प्रागसंस्तुत इति प्रतिपन्नमूल-
च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५॥
ज्ञानप्रकाशसुलभं शिव दर्शनं ते
जात्यन्धतैव च परं मम तद्वियोगात् ।
तत्तां त्वमेव किल कामपि देहि युक्तिं
व्यक्तिं ययैष्यसि मम श्रममन्तरेण ॥ ३६॥
प्राप्येहशीमपि मनुष्यदशां न पुण्ये
ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् ।
सामञ्चसावथ कुतः पुनरप्यतो मां
खामिन्नवन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७॥


१. 'पतेदकरमा' इति क-पाठः. २. "रियादिकोक्तिविफलं' इति क-पाठः. ३. "मुखर- प्रलापम्' इति ख-पाठः. ४. 'श्रयस्व ' इति क-पाठः, ५. 'नादशतानि नाम' इति क-पाठ. ६. 'त्वयि' इति क-पाठः. ७. 'किं तेन नैव' इति क-पाठः, ८, देहयुक्तिं' इति क-पाठः, ९. 'यथैष्यति' इति क-पाठः.