पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ काव्यमाला।

कि नाथ पश्यसि न यत्परिहृत्य शङ्कां
लग्नोऽनिशं शिव शिवेति मम प्रलापः
रक्तार्द्रचर्मवसनाय महाश्मशान-
धान्नेऽस्थिभूषणवते फणिकङ्कणाय ।
रक्षःपिशाचसचिवाय बलिं प्रयामो
रूपाय ते हर युगान्तनिशाचराय ॥ २७ ॥
दिव्योत्तरीयभृति कौस्तुभरत्नभाजि
देवेऽपरे दधतु लुब्धधियोऽनुबन्धम् ।
रूपं दिगम्बरमखण्डनृमुण्डचूडं
भावत्कमेव तु बतेश मम स्पृहायै ॥ २८ ॥
जीवामि चेदः पृथुप्रियविप्रयोग-
रोगादयो नरकदुःखमियोऽन्यथापि ।
नन्त्येव मामुभयथाप्यसुखोऽहमित्थ-
मनोचितं हर चरस्व कृपालुतायाः ॥ २९ ॥
यनेन्द्रियाणि विरमन्ति निजक्रियाभ्यो
यात्यान्तरोऽपि करणप्रसरोऽवसादम् ।
प्राणास्त्रुटन्ति च समस्तनिराशभूतं
मामेत्य शंकर कुतोऽपि तदा दयेथाः ॥ ३० ॥
खाशेषपूर्वदुरितस्मरणादुदेति
यन्नासमं भयमसुप्रशमप्रसङ्गे।
कः कांदिशीकमनसः शरणं तदा मे
स्वामिस्तवैव समयः स कृपालुतायाः ॥ ३१ ॥
अद्यैव यामि शरणं परमेश्वर त्वां
शक्ष्यामि किं ननु तदा हतसर्वशक्तिः।


१. 'भूषणमृते' इति ख-पाठः २. विष्णौ. ३. 'भावत्कमेव भवतीश' इति क- पाठः, ४, मरणेऽपि. ५. 'तदापि कुतो' इति ख-पाठः.६. 'शक्यामि' इति क-पाठा.