पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

24 दीनाक्रन्दनस्तोत्रम् ।

शक्तिक्षयेऽद्य स कथं भजते भवन्तं
जन्मेति मे विफलमीश किमाः करोमि ॥२१॥
नादायि दानमथ नैव तपो व्यधायि
नासेवि तीर्थदिगसाध्यतरः समाधिः।
तत्का परत्र गतिरस्त्यनवाप्तयुण्य-
ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२ ॥
कालान्न मे भयमथो कनके न लिप्सा
नैवास्मि शैशववशेन पयःपिपासुः ।
त्वद्दर्शनाय तु शिव स्पृहयामि लोभा-
त्तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३ ॥
यज्जन्म दुर्लभमुशन्ति मनुष्यलोके
तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् ।
जातं वृथैव मम यत्र मुहुः कदापि
नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४ ॥
जातिमहेश्वर भुजंगमपुंगवानां
स्तुत्या वरं भवदलंकृतिवाहकृत्यैः ।
मानुष्यकं तु मम धिक्कलया कयापि
यन्नोपयोगमगमत्त्वयि मच्छरीरम् ॥ २५ ॥
शश्वद्भुशव्यसनितामपि मेऽवधार्य
वत्से कथं परमकारुणिकोऽप्यवज्ञाम् ।


१. अयं श्लोकः सुभाषितावलौ कर्तृनामरहितो वल्लभदेवेन समुद्धृतः. २. 'तीर्थदि- गसाधि न वा समाधिः' इति क-पाठः. ३. 'भावस्म' इति क-पाठः. ४. श्वेताख्य- राजर्षिवत्, स च कृतान्तभयात्परमेश्वरेण मोचितः. ५. मस्तपतिवत्. मरुत्तत- पस्तुष्टेन' श्रीशिवेन सप्तदिनपर्यन्तं तत्पुरे सुवर्णवर्षणमकारि. ६. उपमन्युवत. परम- शिवभकायोपमन्युनान्ने मुनिकुमाराय दुग्धं पिपासवे परमाणिकेन भगवता क्षीरा- धिरेव समर्पितः ७. सर्पाणां वृषभस्य च. ८. "धिकलयापि शंभो' इति क-पाठः. ९. 'यत्रोपयोगमगमत्वमि नो शरीरम्' इति पाठः,