पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सर्वत्र तत्र शरणं कृपणस्य मे त्व-
मेह्येहि देहि चरणं शिरसीन्दुमौले ॥ १५ ॥
याः प्रोत्कटा भ्रुकुटयो यमकिंकराणां
पीडाश्च या नवनवा नरकावनीषु ।
ताश्चिन्तिता अपि भयाय ममाधुनैव
सोढास्मि ताः कथमहो विषमो विषादः ॥ १६ ॥
भीतोऽस्मि दुर्गततमोऽसि कदर्थितोऽस्मि
पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि ।
तत्केन केन न पथासि कृपास्पदं ते'
मत्वेति शंकर यथोचितमाचरेथाः ॥ १७ ॥
नो यत्र बन्धुरथ नैव पिता न माता
नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे ।
तास्वेव नाथ मम नारकभूषु कुर्या-
स्त्राणं त्वमेव हि जगत्सु दयार्द्रचेताः ॥ १८॥
भ्रष्टोऽसि यद्यपि सतां चरितात्तथापि
मां त्रा तुमर्हसि कृतान्तभिया श्रयन्तम् ।
प्रहेषु विहलतया शरणागतेषु
नो साधवो विदधते सदसद्विवेकम् ॥ १९ ॥
येष्वन्धकारनिकरेण करालिता भू-
र्यत्र ज्वलन्ति नरकेष्वनिशं हुताशाः ।
धामत्रयीनयन निर्जरसिन्धुमूर्ध-
स्तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २० ॥
प्राग्यावदिन्द्रियगणः पटुशक्तिरासी-
त्स्वामिन् तावदगमद्विषयेषु निष्ठाम् ।


१. 'प्रोत्कटन्नुकटयो' इति क-पाठः. इति खपाठः २. 'मां' इति क-पाठः. ३. 'कृतान्तभियं