पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दीनानन्दनस्तोत्रम् ।

तत्तत्कृतं पतदपि स्मृतिसीम्नि यद्य-
त्सद्यो ह्रियं जडधियोऽपि हृदि प्रसूते ॥ ९ ॥
आसाद्य यौवनमथो बहुभिः प्रकारैः
शृङ्गारभङ्ग्यनुनुगुणैर्गुणिताविवेकः ।
जातोऽस्मि घोरनरकावहकर्मयोगा-
द्भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १० ॥
मोहात्कृतः परिणयोऽप्यनयो महीया-
न्मूलं समस्तभवबन्धनदुर्गतीनाम् ।।
यस्मादुपेत्य दुरपत्यजनेन सृष्ट-
स्नेहोऽस्मि वेष्टित इवोत्कटनागपाशैः ॥ ११ ॥
तत्पोषणाय विदुषापि मया समस्त
मौचित्यमुज्झितवतात्तवता कुकृत्यम् ।
द्वारि श्ववल्लडितमेव कदीश्वराणां
सोढावमानशतविश्वमानसेन ॥ १२ ॥
प्राणाधिकैरथ वियोगमवाप्य तैस्तै-
रिष्टैररुतुदविषादवशंवदेन ।
स्त्रीवन्मया विलपितं विहितं न किंचि-
स्कूत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३ ॥
सांसारिकेषु विषयेषु निपत्य राग-
द्वेषैकनिष्ठहृदयो भगवन्नभूवम् ।
आसीददन्तकमयप्रतिकूलवृत्ति
किंचिन्मया न रचितं विदितं न वापि ॥ १४ ॥
इत्थं न किं व्यवहृतं न किमुक्तमात्तं
किंवा न किं न कलितं ललितं न वापि ।


१. 'विकारैः' इति क पाठः, २. 'समुचितमहहा' इति ख-पाठः. ३. 'मया विरचितं' इति ख-पाठः. ४. 'वलितं' इति क-पाठः,