पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ काव्यमाला। सानेकजन्ममरणावटपातनेन मां राक्षसीव बहु नाथ तुदत्यविद्या ॥३॥ घोरे क्षणं विनिपतन्नरके क्षणं च पुण्यं पदं दिविषदां सहसाविरोहन् । मोहेन कन्दुकदशामिव नीयमानः स्वामिन्सहे किमवधीनि गतागतानि ॥ ४ ॥ का मे गतिर्विशति नैव मनो विवेकः खग्नेऽपि पक्कणमिव प्रवरो द्विजानाम् । रुद्धेऽपि तत्र न स रोढुमलं मुहूर्तं विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥ ५ ॥ पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा हन्तासकृत्पतितवानधिगर्भवासम् । तदुःखमन्वभवमीश गभीरकुम्भी- पाको वराक इति यस्य पुरो गृणन्ति ॥६॥ तत्र स्थितस्तदनु तत्तदनेकपूर्व- जन्मान्तरस्मरणविस्मयदुःखितात्मा । असान्निसृत्य पुनरुद्भवभङ्गहेतो- श्चेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७ ॥ तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि यस्मिन्निकाममभिमानधनास्त्रपन्ते । संस्पर्शतस्तु शतशः शितिकर्मवायोः प्रायो निगूढदृढमूढदशामवापम् ॥ ८ ॥ तिर्यग्दशामिव शैनैरविवेकसेका- द्वर्षीण्यवाप्य परमेश्वर पञ्चषाणि । १. 'शित' इति क-पाठः २. 'गतोऽस्म्य विवेकसेकात्' इति क-पाठः.