काव्यमाला।
तेषां संदर्शयितुमपरिज्ञातपूर्वं कदाचित
ज्जन्तुं मुग्धं शिव नयसि किं विश्वपारं पुरं माम् ॥ १६ ॥
दिष्ट्या लब्धं द्विजवरकुले जन्म तत्रापि दिष्ट्या
धर्माधर्मस्थितिरवगतैव प्रसादाद्गुरूणाम् ।
जन्मन्यस्मिन्नपि यदि न मे संभवेदास्तिकत्वं
निस्तारः किं निरयभवनात्सर्वमोक्षेऽपि लभ्यः ॥ ४७ ॥
भव्ये देहे पटुषु करणेष्वालये श्रीसमृद्धे
कौमारान्ते वयसि कथमप्यप्रवृत्ते च दुःखे ।
प्रत्यक्पुष्पीप्रसवविधया यस्य पुंसो निसर्गा-
त्प्रत्यग्वक्त्रं भवति हृदयं कस्ततोऽप्यस्ति धन्यः ॥ १८॥
नाहं याचे पदमुडुपतेर्नाधिकारं मघोनो
नापि ब्राह्मीं भुवनगुरुतां का कथान्यप्रपञ्चे।
अन्यस्यान्यः श्रियमभिलपन्नस्तु कस्तस्य लोको
मह्यं शंभो दिश मसृणितं मामकानन्दमेव ॥ १९ ॥
आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि
त्वत्पादाजप्रपदनपरान्वेत्सि नश्चन्द्रमौले ।
मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमास्थ
स्वस्मिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ ५० ॥
दण्डं धचे सकलजगतां दक्षिणो यः कृतान्तो
नामाप्यस्य प्रतिभयतनोर्नोपगृह्णीमहीति ।
प्राप्ताः स्मस्तं निगमवचसामुत्तरो यः कृतान्तो
यद्वा तद्वा भवतु न पुनस्तस्य पश्येम वक्त्रम् ॥ ५१ ॥
इति श्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीनीलकण्ठदीक्षितेन कृतः शान्तिविलासः ।
१. प्रत्यक्पुष्पी अपामार्गः