पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शान्तिविलासः ।

भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण
व्यामोह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ ४०॥
प्रायश्चित्तं सदुपनते वा प्रमादात्कृते या
भूयो भूयोऽप्यवहिततरैः साधिते कः समाधिः ।
कारुण्याब्धिर्यदि पुरहरः सत्सु कामं दयेत
भ्रष्टे मादृश्यपि स दयते चेत्क्षतो धर्मसेतुः ॥४१॥
साध्या शंभोः कथमपि दयेत्यप्यसाध्योपदेशः
कोपं तस्य प्रथममपनुद्यैव साध्यः प्रसादः ।
को वा वर्णाश्रमनियमिताचारनिर्लकनोत्थं
शान्तिं नेयः स कथमधुनाप्यव्यवस्थाप्रवृत्तेः ॥ ४२ ॥
इष्टापूतैर्निगमपठनैः कृच्छ्चान्द्रायणाद्यैः
स्वमिन्नन्यैरपि तव मनः काममावर्जयेम ।
मध्ये मध्ये यदि न निपतेत्कर्मणां चोदितानां
ज्ञानं श्रद्धेत्युभयमपि नो जातिवैर्यर्गलेव ॥ ४३ ॥
निर्मर्यादः परमचपलो निःसमाज्ञानराशि-
दृक्षोऽन्यः क इति भुवने मार्गणीयस्त्वयैव ।
र्मादृक्षोऽन्यः क्वचिदपि दयेयेति कौतूहलं चे-
त्खामिन्विश्वेश्वर तव भवं निस्तरेयं तदाहम् ॥ ४४ ॥
पश्चात्तताः कथमपि विधेः किंकरीभूय कुर्मः
सेवां शंभोरिति च नियमं वापि संकल्पयामः ।
आयुः किं मे किमिव करणं दुस्तरे संकटेऽसि-
स्वामिन्गौरीरमण शरणं नस्त्वमेव त्वमेव ॥ ४५ ॥
सम्यङ्युक्तस्त्रिभिरपि मलैश्चिद्विकासैकरूपा-
स्त्वन्निध्यानप्रवणमनसः सूरयस्त्वत्पुरे ये ।


१. आणवमायीयकामैं. ३१० भ०