पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दुष्पाण्डित्यादपहृतमतिर्यः पुनः संशयात्मा कसै तस्य प्रभवतु वृथा काकवदीर्घमायुः ॥ ३४ ॥ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः। कायः श्रान्तो यदि भवति कस्तावता धर्मलोप- श्चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ॥ ३५ ॥ स्वेनैवोक्तं निगमवचसा बोधनीयास्तु जीवा जीवैरेवेत्यपि च मुनिभिः कारितं धर्मशास्त्रम् । उत्पश्यन्तु खयमिति भवो दारुणश्चाल्यतेऽसा- वद्यापि स्मो यदि खलु जडाः किं विधत्तां शिवोऽपि ॥ ३६॥ येनाचान्ताः सलिलनिधयो येने सृष्टा प्रतिद्यौः शस्त्राण्यस्त्राण्यपि कवलितान्येकया यस्य यश्या । कस्तादृक्षः प्रभवतु जनो देवभूदेववर्ग कालः कीटानिव कवलयामास तानप्ययनम् ॥ ३७॥ कायस्थैर्य करणपटुतां बन्धुसंपत्तिमर्थ चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ ३८ ॥ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्था- निष्ट्वा यज्ञैर्जनिततनयः प्रबजेदायुषोऽन्ते । इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ ३९ ॥ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्थम् । १. अगस्त्येन. २. विश्वामित्रेण. ३. वसिष्ठस्य, ४. प्रतिभूर्भवति चेत्,