पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


केनाध्यापितमास्थितं क्व नु कदाधीतं क्व वा वर्तितं
तद्विश्राम्यतु कुत्र जातमथ कैः पुष्टं तदालोच्यताम् ।
काले सोऽपि कुहूमुखो यदि जगत्कर्णामृतं कूजति
प्राग्जन्मार्जितभाग्यवैभवमिदं कः स्तोतुमीष्टे कविः ॥ ८४ ।।

कीटः कश्चन वृश्चिक: कियदयं प्राणी कियच्चेष्टते
को भारो हननेऽस्य जीवति स वा कालं कियन्तं पुनः ।
नाम्नोऽप्यस्य कियद्बिभेति जनता दूरे कियद्धावते
किं ब्रूमो गरलस्य दुर्विषहतां पुच्छाग्रशूकस्पृशः ।। ८५ ॥

किं चन्द्रो न पुरा बभूव किमिमे वृक्षाः पुरा नाभव-
न्किं सृष्टा अधुना पिका मधुकरा अद्योदपद्यन्त किम् ।
साहंकारममुं प्रपञ्चमखिलं भोक्तुं यदा प्राणिनां
प्रासीदद्द्रुहिणस्तदा समुदभूदाश्चर्यचर्यो मधुः ॥ ८६ ॥

आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिद-
प्यम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः ।
तद्यत्नादुपयुज्य वर्घयतु वा दातुर्यशः शाश्वतं
मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥ ८७ ॥

वृर्त्ति वर्तयितुं निजां विषहरा गृह्णन्तु सर्वान्नरा
गृह्णन्तु क्षुधितास्तदेकविहिताहारा मयूराश्च वा ।
नाजिघ्रन्ति च ये कदापि नकुलाते हन्त किं कारणं
दर्शं दर्शमनुद्रवन्ति भुजगान्द्वेधा च विच्छिन्दते ।। ८८ ।।

खादन्ति क्षुधितास्तृणानि तृषिता गृह्णन्त्यपो निर्झरे
सीदन्तो गिरिकंदरासु हरिणा येऽमी क्वचिच्छेरते ।
व्याधव्याघ्रदवानलप्रभृतयस्तेष्वेव संनाहिन-
तद्वा तिष्ठतु घातयन्ति मुनयोऽप्येतान्कथं चर्मणि ॥ ८९ ॥

घ्नन्त्येकत्र तरक्षवो मृगकुलं दावा दहन्त्यन्यतो
व्याधा वीतमयाः परत्र शतशो विध्यन्ति गृह्णन्ति च ।