पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

किं त्वं वेत्सि कथामिमां मृगपते निद्रासि कोणे क्वचि.
द्दिष्ट्या चेदवबुध्यसे शमयसि द्वित्रान्वृथा दन्तिनः ॥ ९० ॥

दुर्धर्षोऽसि वनेचरोऽसि क इदं नेत्याह किं तु खतो
जानीषे न हिताहितं न खलु तज्जिज्ञाससे वान्यतः ।
तद्गृह्णन्ति नियन्त्रयन्ति निगलैस्त्वां ताडयन्त्यङ्कुशै-
रारोहन्ति च वारणेन्द्र मशकमाया मनुष्या आपि ॥ ९१ ।।

अह्णस्त्रिश्चतुरम्बुभिः स्नपयसि खं पुष्करावर्जितै-
र्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च ।
पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर
ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ९२ ॥

हन्यन्ते कति जन्तवो वनचरैर्नित्यं कति श्वापदै-
र्गुह्यन्ते कति कूटयन्त्ररचनैः क्षोणीभृतां प्रीतये ।
एतावत्यपि विप्लवे न भजसे कस्यापि दृग्गोचरं
खच्छन्दश्च सृगाल खेलसि पुनस्तुल्यं वनग्रामयोः ।। ९३ ।।

अस्ति खर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः
सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः ।
किं नस्तचरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां
दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ९४ ॥

अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव हालाहलः
सन्त्यस्सिन्मलये पटीरतरवस्तत्रैव वाताशनाः।
यद्यद्वस्त्वभिजातमस्ति सविधे तत्तदुरापं नृणां
प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ९५ ॥

ताबच्चैषितमेधितव्यमवनौ यावन्महद्भिर्दुभै-
च्छायाभिः कुसुमैः फलैश्च पथिकाः शक्त्या समाराधिताः ।
कालोऽयं मम जीर्यतः पतितुमित्यास्ते तरोराशये
पान्थानां च पतत्रिणां च हृदये जातोऽयमसिन्क्षणे ॥ ९६ ॥