पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सोऽद्य प्रावृषि केतकीमधिवसन्भृङ्गः क्षतः कण्टकै-
राविद्धः करकोपलैरमिहतो वातैः कथं वर्तते ॥ ७७ ॥

ब्रूते खागतभीक्षते कृशममुं श्रुत्वा कथाः खिद्यते
पक्षाभ्यामसकल्पमार्टि रचयत्युच्चावचाश्वाशिषः ।
उच्छिन्नप्रसवातरोरुपगते भृङ्गे क्षुधा ताम्यति
प्रस्तौति भ्रमरस्तु पूर्णजठरो नाहारवार्तामपि ॥ ७८ ॥

ये मृष्यति सहासिकामपि बकैर्जाल्या न हंसाः स्वत-
स्तेष्वेको जरसा विलुप्तगमनस्त्यक्तः खकैः प्रावृषि ।
तानेवानुसरन्बकान्बहुतरं तच्चेष्टितानि स्तुवं-
स्तज्जात्यै स्पृहयन्कियत्कियदहो जाति निजां निन्दति ॥ ७९ ॥

शुद्धिं खामनुचिन्त्य मीननिवहैः पूर्णेऽपि पद्माकरे
खेनैवोपनतैर्मृणालबलयैर्जीवन्ति हंसाः सुखम् ।
ये त्वेते विमलास्ततोऽपि च बका ध्यानैकनिष्ठाः सदा
निर्द्वन्द्वा निभृताश्च बिभ्रति न ते यादोभिरेवोदरम् ॥ ८० ॥

यैर्जीवन्ति सितच्छदा न दुरितं कस्यापि यत्संग्रहे
रोचन्ते नहि ते मृणालवलयाः कस्यै प्रभूता अमी ।
अप्या सायमुपोष्य मीनपृथुकैर्युक्त्वा महत्त्यार्जितै-
रेकद्वैरपि तृप्तिमेति परमां हिंसोपलब्धैर्बकः ॥ ८१ ॥

अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटै-
र्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः ।
भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवा-
न्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ८२ ॥

भृत्यास्ते बिभृमस्तु तान्वयमिमे क्षुद्रा बृहन्तो वयं
जातौ पक्षवताममी तु कलकण्ठाः कालकण्ठा वयम् ।
इत्युद्धावयसे कुहूमुखकुलादुत्कर्षमेवात्मनः .
कण्ठे पातयिता कदा खल्लु भवान्काक स्वरं पञ्चमम् ॥ ८३ ॥