पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतद-
प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति
स्तोकेनापि मनोभवो विगलतु प्राणेषु शुष्को ग्रहः ॥ ३२ ॥

तिक्तास्ते विटपास्त्वचो यदि ततोऽप्यासंस्ततोऽपि च्छदा-
स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् ।
स्तौमि त्वामथवा न निम्ब भवतोऽप्यासीद्यतः संभवः
श्रीमत्तत्किल निम्बवीजमघुना स्तुत्यं वचःशालिनाम् ॥ ३३ ।।

चूताः पल्लवमुदिरन्ति वितरन्त्येतपिकेभ्यस्तत-
स्तेऽप्येतेन कुहू: कुहूरिति कलं कुर्वन्ति कूजामिति ।
निम्बोऽपि स्वयमुद्गिरन्फलमनेनाराधयन्वायसा-
न्किंचित्रेषु ततो स्टत्सु सफलं जन्म खयं मन्यते ॥ ३४ ॥

भोज्यं खादु पयः स्थितं मणिगणैरापिञ्जरे पञ्जरे
दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् ।
सत्यं सर्वमथापि काननभुवि खाच्छन्द्यमव्याहतं
ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥ ३५ ॥

प्राड्भेघै: कियदम्बु पीतमुधे: पीतेऽपि वृष्टिः क्वचि-
द्वृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः ।
नेदं कश्चन वेदयन्तु किमपि प्रापावशिष्टं पुन-
र्घर्मान्ते सरितां मुखेन तदभूदीर्ष्यास्पदं पश्यताम् ॥ ३६ ॥

मेघं द्वारतया विघाय भुवनान्याप्लावयस्यम्भसा
चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वौषधीः ।
यत्त्वीपत्तपसीव तत्तु कुरुषे खेनैव तेनाधुना
दातृत्वं धनचन्द्रयोः परिणतं क्रौर्यं तु शिष्टं त्वयि ॥ ३७॥

द्वारं न प्रजहातु जातु नियतं जागर्नु रात्रीरपि
खल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि ।