पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


संपाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति
त्यक्त्वा भत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥ ३८॥

उत्पन्नाः सरितां हृदेषु सुचिरं तत्रैव पुष्टास्ततः
प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिंगिलकुलस्यासाद्य कूटस्थतां
मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासंकथाम् ।। ३९ ॥

पन्था कर्दमितः पयः कलुषितं हंसाः कृता दूरतः
पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः ।
सोढाहे तव हे पयोद सकलं शक्नोषि दातुं खतः
किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥ ४० ॥

सर्वज्ञो यदि शंकरो यदि महादेवो यदि प्रायशो
देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः ।
धुस्तूरैः फणिभिः कपालवलयैरन्यैश्च ते संगति-
श्चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥ ११ ॥

अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो
भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत्कुलीनो न चे‌-
देकः प्राणिति तावतैव कृतमस्त्यत्रैव नः संशयः ॥ ४२ ॥

वर्णस्तेऽतिमनोरमः शिरसि ते चासो मृडानीपतेः
प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते ।
किं कर्तव्यमितःपरं च भवता धुस्तूर लोकाः पुन-
र्न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥४३॥

राज्यं येन कृतं न तस्य शृणुमः कामस्य नामाधुना
येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् ।
व्याप्ता येन दिशो न सांप्रतमसौ मन्दानिलः स्यन्दते
किं ब्रूमो नितरां निदाघहतको विश्वं नवं निर्ममे ॥ ४४ ॥