पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं
ध्यायामो ह्यदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे
नह्येकरय गुणः परस्य महतो दोषानपि प्रोर्णुते ॥ २६ ॥

अम्बुक्षोभकृतः कतीह तिमयः कत्युच्छ्रिताः पर्वताः
कीद्दक्चान्तरबिन्धनो हुतवहः कीद्दक्च नौकागतिः ।
आगच्छत्प्रतिगच्छदुच्चलदुपाश्लिष्यत्प्रधावत्यत-
त्कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥ २७ ॥

जामाता कमलाक्ष एव गृहिणी गङ्गा जगत्पावनी
शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या स्वयम् ।
ईद्दक्ते गृहमेधिता त्रिभुवनाधारस्य वारांनिधे
कः शक्नोति जनो मनोरथपथेऽप्येतावदुत्प्रेक्षितुम् ॥ २८ ॥

यन्मूले निखिलागमानुपदिशंस्तत्त्वं परं शंकरो
यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न खीकृतः ।
यच्छाखानिचयः पिशाचनिलयो यन्मूलगाः पन्नगा-
स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥ २९ ॥

आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च
खारब्धं मधुमक्षिकां न कणमप्यस्य खयं भुञ्जते ।
धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन्दूरतः
खादंस्वादमिदं खसंभृतमिव खच्छन्दमानन्दति ॥ ३० ॥

आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः
श्रूयन्ते गिर एष तत्त्वमिह न ज्ञातुं विधातुः क्षमः ।
यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्मैः शाखिनां
यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालख्यते ॥ ३१ ॥