पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

याः स्वस्यैकांशपातादितिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदशः कल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥२५॥

प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्त्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखालीः सुखं वः ॥२६॥

सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः।
लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥२७॥

येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिप्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृशिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्यात्-
पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥२८॥

भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम् ।
यच्चांहोहन्निरीहं गगनमिति मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥२९॥

इति श्रीमच्छंकराचार्यविरचितं शिवकेशादिपादान्तवर्णनस्तोत्रं समाप्तम् ।


श्रीनीलकण्ठदीक्षितविरचितः
शान्तिविलासः

वंशे कस्मिन्नजनिषि कयोः पुत्रतामग्रहीषं
कत्यश्रौषं तदपि कतिधा तच्च सयः कतिभ्यः ।
किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं
नोपारंसीत्तदपि हृदयं कीदृशो मे विपाकः ॥ १ ॥

५. प्राचीनबर्हिरिन्द्रः. २. रत्नसमूहकिरणैः. ३. शेषा प्रसाददतं माल्यम्.