पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शिवकेशादियादान्तवर्णनस्तोत्रम् ।

मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्चन्-
नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥१९॥

वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाकीडभूमिस्तद्वो
निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥२०॥

पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ ।
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥२१॥

आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्ना प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥२२॥

मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः ।
बिभ्रत्यौ विम्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥२३॥

अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्सम्पूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥२४॥

याः खस्यैकांशपातादतिबहलगलद्रक्तवकं प्रणुन्न-
प्राणं प्राक्रोशयन्याङिजमचलवरं चालयन्तं दशास्यम् ।

१. भवदीयचेतीविष्णुः. २. स्तोमसंज्ञकाः शस्त्राख्याच केचन साममन्त्राः.