पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


काव्यमाला। नयनारुणताउनुभावैरम/दिव्यभिचारिभिः क्रोधपरिपोषो रौद्गः । परशुरामभीमसेनदु- र्योधनादिव्यवहारेषु वीरचरितवेणीसंहारादावक्गन्तव्यः ।। जुगुप्सात्माथ बीभत्सः स्यादहृयश्रुतीक्षणैः । निष्ठीवनास्यभङ्गादि महतां नात्र वर्ण्यते ॥ ९७ ॥ 'जुगुप्सा गर्हणार्थी वा दोषमाहात्म्यदर्शनात् ।' 'बीभत्सः कृमिपूतिगन्धिकलिलप्रायै- र्जुगुप्सैकभूरुद्वेगी रुधिरानकीकसवसास्नाय्वादिभिः क्षोभणः । वैराग्याजघनस्तनादिषु घृणायुक्तो विभावतो नासावऋविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥' अत्यन्ताहृयकृमि- पूतिगन्धिप्रायविभावोद्भूतजुगुप्सास्थायिभावपरिपोषलक्षण उद्वेगी बीभत्सः । यथा- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममय पृथूच्छूनभूयांत्ति मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसु- लभान्युप्रतीनि जग्ध्वा । आर्तः पर्यस्त नेत्रः प्रकटितदशनः प्रेतरङ्कः करकादकस्थाद- स्थिसंस्थं स्थपुटगतमपि ऋव्यमव्यग्रमत्ति ॥' रुथिरान्त्रकीकसवसामांसादिविभावः क्षोभणो बीभत्सो यथा---'अन्नप्रोतबृहत्कपालनलकक्रूरकणकङ्कणप्रेतद्भरिविभूषणारवभरैराघो- षयन्त्यम्वरम् । पीतच्छर्दितरक्तकर्दमघनप्रारभारघोरोलसद्यालोलस्तनभारबन्धुरवपुर्वद्धा- दरं धावति ॥' रम्येष्वपि रमणीजघनस्तनादिषु घृणायुत्तो बीभत्सो यथा—'लालां वकासवं बेत्ति मांसपिण्डौ पयोधरी । मांसास्थिकूट जघनं जनः कामाग्रहातुरः॥' न चायं शान्त एव । विरलोक्तेः । यतो बीभत्समानो विरज्यते ॥ सम्यग्ज्ञानसमुद्भूतः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागात्सम्यग्ज्ञानसमुद्भवः ॥ ९८ ॥ इदं वाग्भटालंकाररीत्या । काव्यप्रकाशे तु-'निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।' दशरूपके तुरत्युत्साहजुगुप्साः क्रोधोत्साहौ स्मयो भयं शोकः । शममपि केचित्पाहुः पुष्टि व्येषु नैतस्य ॥' इति । अत एवोक्तं मूले-काव्ये' इति । 'कश्चित्सदम्भो दम्भोलिसदृशं वक्ति चेद्वचः। तथापि नैति विकृति शान्तः सागरधीरधीः ॥' स्निग्धा हृष्टा तथा दीना क्रुद्धा हप्ता भयान्विता । जुगुप्सिता विस्मिता च शान्तेति रसदृष्टयः ॥ ९९ ।। जगति यद्यपि सन्ति परःशता गुरुतमा रचना बुधबुद्धये । ननु तथापि मया न वृथा कृतागुरुतमा रचनाबुधबुद्धये ॥ १० ॥ शतात्परे पर शताः । 'परःशताद्याने येषां परा संख्या शतादिकात्' इत्यमरः । नन्विति वावयालंकारे । अगुरुतमा रचना अबुधबुद्धये बालबोधाय ।। गुरुपादाम्बुजद्वन्द्वप्रसादावाप्तसन्मतिः । त्रिपाठी शिवरामाख्यो हारं पूरितवानमुम् ॥ १०१॥ इति श्रीमच्छिवरामत्रिपाठिकृतो लक्ष्मीविहाराख्यटीकासमेतो रसरत्नहारः।