पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
अन्यापदेशशतकम् ।


श्रीनीलकण्ठदीक्षितप्रणीतम्

अन्यापदेशशतकम् ।

छायावृक्षमुपाश्रयन्ति पथिषु श्रान्ता हि पान्थाः समं
तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति ।
अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते
कश्चिनिश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥ १ ॥

श्वानः सन्त्यभितोऽपि दन्तमुकुलव्यावर्तनोद्घाटित-
खैरोत्तानितविड्वराहपृथुकाः किं तैः स्थितैर्वा मृतैः ।
वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः खेच्छया
हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥ २ ॥

किं पुष्णासि मृगान्मृगादनकुलात्किं वा परं त्रायसे
त्वद्भाग्येन तथाप्यमी वनभुवि स्वैरं चरित्या तृणम् ।
त्वां राजानमुपासितुं यदि किल श्रद्धां निवघ्नन्ति त-
त्किं पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥ ३ ॥

उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयस-
स्तीर्त्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातःपरं
त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धद्रवैः ॥ ४ ॥

भ्रान्त्वा दिग्वलभीर्विचित्य विपिनान्यासाद्य दैवादिह
क्वापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् ।
कृत्वा नीडकुटीं चिरात्तरुशिरस्यध्यास्त यावन्नतां
काकस्तावदहो तदेव विपिनं दग्धं दवज्वालवा ॥ ५ ॥

नाम्भोजाय शशी न चापि शशिने यद्रोचतेऽम्भोरुहं
किं तेन क्षतमस्ति किंचन जगत्येतस्य वा तस्य वा ।


१. हे सिंह. २. चन्दनाशया.