रसरत्नहारः।
विकारदर्शनास्मितहासते । विहसितापहतिते मध्यमस्य । अपहसितातिहसितेऽधमस्य ।
व्यभिचारिणश्चास्य---'निद्रालयलमग्लानिमूर्छास्तु सहचारिणः ।'
विस्मयोत्थोऽद्भुतो ज्ञेयः स चासंभाव्यवस्तुनः ।
दर्शनाच्छ्वणाद्वापि देहिनामुपजायते ॥ ९१ ॥
नेत्रप्रकाराः पुलकः स्नेदो निस्पन्दता तथा ।
अनुभावा बद्भुतस्य वाणी स्वादन गद्दा ॥ १२ ॥
'विसयश्चित्तविस्तारो वस्तुमाहात्म्यदर्शनात् । अतिलोकैः पदाथैः स्याद्विस्मयात्माद्भुतो
रसः ॥ कर्मास्य साधुवादाश्रुवमथुखेदगदगदाः । हर्षावेगवृतिप्राया भवन्ति व्यभि-
चारिणः ॥' लोकसीमातिवृत्तपदार्थवर्णनादिविभानितः साधुवादाद्यनुभावपरिपुष्टो विस्मय-
स्थायिभावो हर्षवेगादिच्यभिचारिभावितो रसोऽद्भुतः । यथा-'कराग्रस्थापितगिरि
हरि निर्निमिषेक्षणाः । अपश्यन्गोपिका दन्तदष्टजिह्वा मुदान्विताः ।
घोरवस्त्ववलोकेन भीतिजन्मा भयानकः ।
वनितानीचबालेघु बहुधा वर्णयन्त्यमुम् ॥ ९३ ॥
दिग्दर्शनं चास्यशोषो गद्दा गीश्च संभ्रमः ।
कम्पस्त्रासश्च वैवयं संमोहोऽप्यत्र वर्ण्यते ॥ ९४ ॥
रौद्रशक्त्या तु जनितं चित्तवैलव्यदं भयम् । विकृतवरसत्त्वादेर्भयभावो भयानकः ॥
सर्वाङ्गवेपथुखेदशोषवैचित्वलक्षणः । दैन्यसंभ्रममोहादित्रासादिस्तस्य सोदरः ॥ रौद्र-
खरश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्र-
भृतयो दैन्यादयश्च व्यभिचारिणः । यथा---'ग्रीवाभाभिराम-' इत्यादि शकुन्तलायाम् ॥
रौद्रः क्रोधात्मको ज्ञेयः कोपः परपराभवात् ।
भीष्मक्रियो भवेदुनः सामर्षस्तत्र नायकः ॥ ९५ ॥
भुजाधातः स्वप्रशंसा शस्त्रोत्क्षेपोऽथ भृकुटिः ।
आक्षेपो दलनं शत्रोर्वर्णयन्ति कवीश्वराः॥ ९६ ॥
'प्रतिकूलेषु तैष्ण्वस्य प्रबोधः क्रोध उच्यते । क्रोधो मत्सरवैरिकृतमथैः पोषोऽस्य
रौद्रो मुहुः क्षोभः खाधरदंशकम्पभृकुटिदास्परागैर्युतः । युद्धोलासविकत्थनांसधरणी-
घातप्रतिज्ञाग्रहैरत्राममदौ स्मृतिश्चपलतासूयौत्र्यवेगादयः॥ मात्सर्यविभावो रौद्रो यथा-----
'वं ब्रह्मवर्चसधरो यदि वर्तमानो यद्वा स्वजातिसमयेन धनुर्धरः स्याः । उग्नेण भोस्तव
तपस्तपसा दहामि पक्षान्तरस्य सदृशं परशुः करोतु ॥ वैरिकृतादिविभावो यथा-
"लाक्षागृहानलविषानसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डवक-
धूपरिधानकेशान्स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥' इत्येवमादिविभावैः प्रखेद-
पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
