पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कल्कलस्वं च लभया सम इह परितोषो निर्विशेषो विशेषः । स च भवतु दरिद्रो यस्य कृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ शतितो यथा-'राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यग्लालनपालिता प्रशमिताशेषोप- सर्गाः प्रजाः । प्रथोतस्य सुता बसन्तसमयस्वं चेति नाना धृति कामः काममुपैखयं मम पुनर्भन्ये महानुत्सवः ॥ इत्याद्यूह्यम् । अथ मोहः--'मोहो विचित्तता भीतिदुः- खावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णतादर्शनादयः ॥' यथा--'तीब्राभिषज्ञप्रभाव वेन वृत्ति मोहेन संखम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रति- बभूव ॥ यथा च–'विनिश्चतुं शक्यो न सुखमिति वा दुःखमिति वा प्रबोधो निद्रा वा किमु विषविसर्पः किमु मदः । तब परों स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चै- तन्यं भ्रमयति च संमोलयति च ॥' अथ श्रीडा---'दुराचारादिमिनीडा धाष्टोभावस्त- मुनयेत् । साचीकृतावरणवैवर्पोधोमुखादिभिः ॥' यथा-'पटीलग्ने पत्यौ नमयति मुखं जातविनया हठाछेषं वाञ्छत्यपहरति गात्राणि निभृतम् । न शक्नोल्याख्यातुं स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिभोगे नववधूः ॥' अथालस्यम्---- "आलस्यं श्रमग देजह्वयं जृम्भासितादिमन् ।' यथा-'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भमरालसा सुतनुः ॥' अथ बीनता--'दौर्गलाद्यैरनौजस्य दैन्यं काष्र्या मृजादिमत् ।' दारियन्यक्कारादिविभावरनोज- स्कता चेतसो दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादानादयोऽनुभावाः । यथा-- 'वृद्धोऽन्धः पतिरेष मञ्चक्रगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वातापि नो । यत्नात्संचिततैलबिन्दुघटिका भन्नेति पर्याकुला दृष्ट्वा गर्भभरालसा निज- वधूं श्वश्रूश्चिरे रोदिति ॥ शेषं पूर्ववत् । अथ चापलम्--'मात्सर्थद्वेषरागादेश्चापलं खन- वस्थितिः । तत्र भर्सनपारुष्यखच्छन्दाचरणादयः ॥' यथा--'अन्यासु ताबदुपमर्द- सहास भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि कि नमालिकायाः ॥ यथा वा-'विनिकषणरणत्कठोरदंष्ट्रानकच- विशङ्कटकंदरोदराणि । अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥' अथ वा प्रस्तुतमेतावत्सुन्दरि हितं करिष्ये । अथ हर्षः--'प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रु- खेदगद्दाः। प्रियागमनपुत्रजननोत्सवादिविभावैश्वेतःप्रसादो हर्षः । तत्र चाश्नुखेदाद- योऽनुभावाः । यथा--'आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लक्ष्यतां गेहिन्या परि- तोषबाष्पकलिलामासज्य दृष्टिं मुखे । दत्वा पीलसमीकरीरकवलान्वस्त्राञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराप्रलमं रजः ॥ निर्वेदवदन्यदुन्नेयम् । अथावेग:--'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगे वात्सायां सूर्यदिग्धस्त्वरितपदगतिवर्षजे पिण्डिताः । उत्पातात्यस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वहधूमाकुलास्यः करिम- नुजभये स्तम्भकम्पापसाराः ॥' अभिसरो राजद्विवराहादिस्तद्धेतुरावेगः । यथा--- 'आगच्छागच्छ सज्न कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः कासौ कृपाणीमुपनय धनुषा कि