पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। निर्लज्जोऽस्यां समासक्तः शठः स्त्रीकपटे पटुः । यथासंभवमेतेषां भेदा ज्ञेया मनीषिभिः ।। ५०॥ मानी च चतुरश्चोभौ शठभेदौ प्रकीर्तितौ । 'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ बुद्धथुत्साहस्मृतिप्रज्ञाकलाज्ञानसमन्वितः । शूरो इदश्च तेजस्वी शास्त्रचक्षुश्व धार्मिकः ॥' नेता नायकः । मधुरः प्रियदर्शनः । त्यागी सर्वखदायकः । दक्षः क्षिप्र- ‘कारी । स्थिरो वाल्मनःक्रियामिरचञ्चलः । बुद्धिर्ज्ञानम् । प्रज्ञा गृहीतविशेषकारिणी । 'मेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् । निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ॥' मृदुः सुकुमारसत्त्वाचारः । 'सामान्यगुणयुक्तश्च धीरशान्तो द्विजादिकः ।' सामान्यगुणा विनयादयः। द्विजादिक इति विप्रवणिक्सचिवाद्युपलक्षणम् । 'महास- त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारी धीरोदात्तो दृढव्रतः ॥' महासत्त्वः क्रोधाधनभिभूतः । अविकत्थनोऽनात्मश्लाघनः । दृढव्रतोजीकृतनिर्वाहकः । 'दर्पमात्सर्वभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतस्वहंकारी चलवण्डो विकत्यनः ॥' घि दक्षिणः शठो धृष्टा पूर्वी प्रत्यन्यया हृतः। पूर्वी नायिका प्रसन्यया नायिकयापहृत- चित्तः । 'दक्षिणोऽस्यां सहृदयः अस्यां ज्येष्ठायां हृदयेन सह व्यवहरति । 'नूडविग्नि-. यकृच्छठः । ब्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्वेकनायिकः ॥ इति दशरूपके ॥ वाक्वेष्टाव्यङ्गयसंयोगनिपुणश्चतुरो मतः ॥ ५१ ॥ तेषां च नर्मसचिवः पीठमदों विटस्तथा । चेटो विदूषक इति चतुर्धा भानुनोदितः ॥ ५२ ।। पीठमर्दः प्रकुपितस्त्रीप्रसादक उच्यते । बिटः कामकलाभिज्ञश्चेटः संधानदक्षिणः ॥ ५३ ।। अङ्गवाग्वेषवैकृत्यहास्यकारी विदूषकः । तेषां नायकानां नर्मसचिवः क्रीडासहायः। मन्त्री सहायः सचिवः' इत्यमरः । 'पता- कानायकरसन्यः पीठमा विचक्षणः ।' प्रागुतप्रासङ्गिकेतिवृत्तविशेषः यताका । तन्ना- अकः पीठमदः प्रधानेतिवृत्तनायकस्य सहायः । (यथा) रामायणे सुग्रीवः । मालतीमा- धवे मकरन्दः । 'एकविद्यो विटश्चान्यो हास्यकच विदूषकः।' गीतादिविद्यानां नायको- प्रयोगिनीनामोकस्या विद्याया वेदिता विटः । इति दशरूपके । पीठमर्दो यथा---'अध- रयोः करयोः सखि पादयोररुणता विधिना. रचितोचिता । समुचिता न च भामिनि या दशौरविधिकर्म न यच्छति सत्फलम् ॥' चेटो यथा---'मनो मनोभवस्तस्य सुदत्य- तितुदत्यहो । मा नोऽमानोऽस्ति ते याच्यामुररीकुश्ते नु क । विदूषको यथा---