पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरत्नहारः। 'न नमनं मनसस्तव तोषन्मम मनोऽपहृतं च न यच्छसि । इति निगध चुकूद विदूषकः प्रमदया कृतवि(सु)स्मितया हतः ॥' आद्यानुरागमानात्मप्रवातकरुणात्मकः ।। ५४ ॥ चतुर्घा विप्रलम्भः स्यात्पूर्वपूर्वो ह्ययं गुरुः । नवावलोकाइंपत्योः कामवर्धितरागयोः ॥ ५५ ॥ पूर्वानुरागो विज्ञेयो ह्यपूर्णस्पृहयोर्दशा । मानप्रवासावुदितौ पञ्चत्वे करुणस्तयोः ।। ५६ ।। एकस्य तत्र वृत्तस्य वर्णनं क्रियते बुधैः । [स्पष्टम् ॥] अथ स्त्रीणामलंकारा वर्ण्यन्ते शास्त्रदर्शिताः ।। ५७ ॥ यौवने सत्त्वजास्तासामष्टाविंशतिरीरिताः। अलंकारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ।। ५८ ।। शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्य धैर्यमित्येते सप्तैव स्युरयत्नजाः ।। ५९ ॥ लीला विलासो बिच्छित्तिविश्वोकः किलकिञ्चितम् । मोहायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ६० ॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥ ६१॥ खभावजाः स्युर्भावाद्या दश पुंसां भवन्त्यमी । 'यौवने सत्त्वजाः स्त्रीणामलंकाराश्च विंशतिः।' सत्त्वोद्भूता विंशतिरलंकाराः स्त्री भवन्ति । तत्र भावहावहेलास्त्रयोऽजजाः । शोभा कान्तिीप्तिमाधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययत्नजाः सप्त । लीला विलासो विच्छित्तिविभ्रमः किलकिञ्चितं मोहाथितं कुट्टमितं. विश्वोको ललितं विहृतमिति स्वाभाविका दश । [इति दशरूपके ॥ भाव:- भावो विकारश्चित्ते स्यान्निर्विकल्प य आदिमः ॥ ६२ ॥ 'निर्विकारात्मकात्सत्त्वाद्धावस्तत्राद्यविक्रिया ।' तत्र विकारहेतौ सत्यप्यविकारकर सत्त्वम् । यथा-'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।' तसादवि-. काररूपात्सत्त्वादाद्यः प्रथमो यो विकारो भवति स बीजस्योच्छूनदेव भावः ।।