पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
काव्यमाला।


उपदेशाय शिष्याणां संतोषाय मनीषिणाम् ।
 क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥
धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः
 सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः ।
धर्मो बन्धुरबान्धवे पृथुपथे धर्मः सुहृन्निश्चलः
 संसारोरुमरुस्थले सुरतरुर्नास्त्येव धर्मात्परः ॥ ३ ॥
कर्णे धर्मकथा मुखे परिचितं धर्माभिरामं वच-
 श्चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः ।
काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये
 कल्पापायपदेऽप्युपप्लवलवैस्पृष्टवेलाफलः ॥ ४ ॥
निन्द्यं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीनं
 बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्याचेष्टः पशूनाम् ।
बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस्तत्त्वचर्चाविचारे
 पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्लेशमेव ॥ ५ ॥
पाण्डित्यं यन्मदान्धानां परोत्कर्षविनाशनम् ।
 मात्सर्यपांसुपूरेण मात्तङ्गस्नानमेव तत् ॥ ६ ॥
तत्प्राज्ञत्वं हरति विमलं येन शीलं न काम-
 स्तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि ।
तवैदग्ध्यं भुवनजयिनी वञ्चयते येन माया
 तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन ॥ ७ ॥
अन्धः स एव [१]श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः
मृतः स एवास्ति यशो न यस्य धर्मे न वीर्यस्य स एव शोच्यः ॥८॥


  1. ‘श्रुतिवर्जितः’ इति पाठः