पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
चतुर्वर्गसंग्रहः ।


हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् ।
यस्मिन्दिने निष्फलता प्रयातमायुः स कालः परिदेवनस्य ॥ ९ ॥
न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति ।
न शीततुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥ १० ॥
सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी
 पाणौ दा[१]नविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ ।
संसक्ता हृदये दयैव दयिता का[२]ये पराथोंद्यमो
 यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्यजीवाः परे ॥ ११ ॥
परप्राणत्राणप्राणहितधियां धर्मजननी
 दयैवैका लोके सकलजनताजीवितसुधा ।
असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयनै-
 रहिंसा संसारे स्वपरकुशलश्लाव्यसरणिः ॥ १२ ॥
प्राणानां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिनां
 प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् ।
पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा-
 न्प्राणानामभयं ददाति सुकृती तेषामहिंसाव्रतः ॥ १३ ॥
स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः ।
मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरस्वती ॥ १४ ॥
क्लिन्नं कोषनिषण्णमर्थिविफलं शल्यायते यत्परं
 वित्तं क्लेशनिमित्तमेव मलिनं यातु स्वयं तत्क्षयम् ।
यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः
 स्वार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ॥ १५ ॥


  1. 'दानविमुक्तता जनसनः' इति पाठः
  2. ‘काले’ इति पाठः।