पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
चतुर्वर्गसंग्रहः ।


[१]नोविपिनधाविनं सततमेव काञ्चीपुरे
 विहाररसिका परा परमसंविदुबीरुहे ।
कटाक्षनिगढैर्हढं हृदयदुष्टदन्तावलं
 चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥
करणात्काञ्ची काञ्चीपुरमणिदिपञ्चील्याझरी-
 शिर:कम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुलसीमा मनसि मे
 मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०० ॥
इमे परवरप्रदं प्रकृति पेशलं पाचनं
 परापरचिदाकृतिप्रकटनपदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयान्नम्बिकां
 जपैरलमलं मखैरधिकदेहसंशोषणः ॥ १०१ ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिभावकम्।

(समाप्तेवं मूकपञ्चशती)


महाकविश्रीक्षेमेन्द्रकृतः

चतुर्वर्गसंग्रहः।

प्रथमः परिच्छेदः।

सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः
 क्षान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः।
भूयात्सत्त्वसविलसत्पल्लवः पुण्यभाजां
 धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥ १ ॥


  1. अयमग्रिमश्च श्लोकः क-घ-पुस्तकयोर्नास्ति.