पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
काव्यमाला ।

अहो शिशिरिता कृपामधुरसेन कम्पातटे
 चराचरविधायिनी चरति कापि चिन्मञ्जरी ॥ ९३ ॥
कलावति कलाभृतो सुकूटसीम्नी लीलावति
 स्पृहादति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
 त्वरावति परे सता़ं गुरुकृपाम्बुधारावति ॥ ९४ ॥
त्वयैव जगदम्बया भुवनमण्डली सूयते
 त्वयैव क[१] रुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
 त्वयैव किल नित्यया जगति संक्तं स्त्रीयते ॥ ९५ ॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
 गुणत्रयमयीं जगत्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा वसदिशां निशाहर्मयीं
 परां सततसम्मयीं परमचिन्मयीं शीलये ॥ १६ ॥
जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा
 जितशरदम्बुजे धनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा [२]पररूपधरे
 मम गतसंविदो जडिमडम्बरलाण्डविनः ॥ ९७ ॥
भुवनजननि भूषाभूतचन्द्रं नमस्ते
 कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमो नित्यरूपे नमस्ते
 परशिवमायि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥


  1. ‘करुणानिधे’ इति द पाठ:
  2. ‘सुररूप’ इति घ पाठ:।