मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ
श्रयति हि गलत्तन्द्रा चन्द्रावतंसंसधार्मिणी ॥ ३४ ॥
परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम्
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ.
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥.
पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
सरसकविताभाजा काञ्चीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥
नयनयुगलीमास्माकीनां कदा नु फलेग्रहिं
विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
मरकतरुचो देहे माहेश्चराः स्तननम्रिताः
सुकृतविभवाः प्राञ्चः काञ्चीवतंसंधुरंधराः ॥ ३७॥
मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥
शिथिलिततमोलीलां नीलारविन्दविलोचनां
दहनविलसत्कालां श्रीकामकोटिमुपास्महे ।