पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
काव्यमाला।


करकृतलसच्छूलां [१]कामारिचित्तमनोहरां
 मनसिजकृपालोला लोलकामलिकेक्षणाम् ॥ ३९ ॥
कलालीलाशाला कविकुलवत्र कैरववनी-
 शरज्ज्योत्स्नाधारा शशधरशिशुश्लाध्यमुकुटी
पुनीते नः कम्पापुलिनतटसौहार्दतरला
 कदा चक्षुर्मार्गं क[२] नकगिरिधानुष्कमहिषी ॥ ४० ॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्येण गुरुणा
 दधानेभ्यश्चूढाभरणममृतस्यन्दशिशिरम् ।
सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो
 यशोव्यापारेभ्यः सुकृत्तविभवेभ्यः प[३]शुपतेः ॥ ४१ ॥
असुबन्ती काचिन्मरकतरुचो नाकिमुकुटी
 कदम्ब चुम्बन्ती रणनखचन्द्रांशुपटलैः ।
तमोमुद्रा विद्रावयतु सम कञ्चीनिलयना
 हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी
 निरून्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्तीं स्वयमहो
 गलत्कम्पा शम्पा परिलसति कम्पपरिसरे ॥ ४३ ॥
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
 पारिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः
स्तनाभ्यामानम्रा स्तंबायतु में काङ्क्षिततरूं
 दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४ ॥


  1. "कालारि' इति क-ख-ग-पाठः
  2. कनकमिरिणा मेरुणा धानुष्को धनुष्मान् शिवः तस्य महिषी.
  3. रितिपतेः इति घ-पाठः