मुनिजनमनःपेटीरत्नं स्फुरत्करूणानटी-
विहरणकलागेहं काञ्चीपुरीमणिभूषणम्
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं के पुरः परिजृम्भताम् ॥ २९ ॥
मुनिजनमनोवाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितट[१]प्राग्भारा[२]वाक्षराय परात्मने
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥
मरकतरुचा प्रत्यादेशं महेश्वरचक्षुषा:-
ममृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीमाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥
प्रणमनदिनारम्भे कम्पानदीसखि ताबके
सरसकवितोन्मेषः पूषा सतां स[३]मुदञ्चितः
प्रतिभटमहापौढप्रोद्यत्कवित्वकुमुद्रतीं
नयति तरसा नि[४]द्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रित[५] कुन्तला
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतुं में नेत्रे गोत्रे[६]श्वरप्रियनन्दिनी ॥ ३३ ॥