आश्चर्यं बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती
कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥
ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके
रेखा यत्कचसीम्नि शेखरदशां नशाकरी गाहते
औन्नत्यं मुहुरेति येन सः महान्मे[१] सखः सानुमा-
न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाहोश्च मू[२]लं स्पृश-
न्नुत्तसेन मुखेन च प्रतिदिनं द्युह्यन्पयोजन्मने
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपय-
न्काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥
खण्डं चान्द्रमसें बतसमनिशं काञ्चीपुरे खेलनं.
कालायछवितस्करीं अनुरुचिं कर्णेजपे लोचने
तारुप्योमस्वंपच[३]स्तनभरं जङ्घास्पृशं कुन्तलं
माग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥
तन्वानं जनकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु' किंचन भजे काञ्चीपुरीमण्डन
[४]पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥
आलोके मुखपङ्कजे च दधती सौधाकरी चातुरीं
चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घनस्तनतटी मूर्च्छालमध्याञ्चि वा
काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७॥