पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यस्मि[१] न्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-
 ज्योत्स्नासंस्रपिता भवत्याभिमुखी तं प्रत्यहो देहिन[२]म् ।
द्राक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैख[३]री
 कामाक्षि स्वयमातनोत्यमिसृति वामेक्षणेव क्षणात् ॥ १८ ॥
कालिन्दीजलकान्तयः स्मितरुचिस्वार्हिनीपाथसि
 प्रौढध्यान्तरुचः स्फुटावरमहालौहित्यसंध्योदये ।
माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
 कल्याणैकमुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९॥
कलकलरणत्काञ्ची काशीविभूषणमालिका
 कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिरः श्रावं श्रावं मिलमुलत्पुलकाङ्कुरा
 विरचितशिर कम्पा कम्पातटे परिशोभते ॥२०॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी
 भरितभुवना कीर्तिमूर्तिर्मनोभवजित्वरी
जननि मनसो योग्यं भोग्यं नृणां तव जायते
 कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥
भ्रमरितसरित्पूरे नीलोत्पलप्रभया भया-
 नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
 प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥
मधुरवचसो मन्दस्मेरा मतङ्गजगामिन-
 स्तरुणिमजुषस्तापिच्छाभास्तमः परिपन्थिनः ।


  1. एव इति क-ख--गपाठा,
  2. देहिनाम् इति क-ख-पाठः
  3. वाणी