लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम्
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥
श्वेता मन्थरहसिते शा[१]ता मध्ये च वाङ्मनोतीता।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २०॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥
पुण्या कापि पुरंध्री पुङ्खितकंदर्पसंपदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥
पौष्टिककर्मविपाकं पौष्पशरं स[२]विषसीम्नि कम्पायाः
अद्राक्षमात्यौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥
संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रप्रदुत्तंसे
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥
उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम्
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥
एणशिशुदीर्घलोचनमेनःपरिपन्थि संततं नमताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥
स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वेयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥