पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाम।

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरित ।
कुरुते जनो मनोऽयं कुलगिरिपरिवृतकुलैकमणिदीपे ॥ ३०॥
वीक्षेमहि काञ्चिपुरे विधुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचर देहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥
कुरुविन्दगोत्रगात्रं, कूलचरं किमपि नौमि कम्पायाः
कुलकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥
कुड्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥
अङ्कितकुचेन केनचिदन्धंकरणामधेन कमलानाम् ।
अन्तःपुरेण शंभोरलंक्रिया कापि कलप्यते काञ्च्याः ॥ ३४ ॥
उररीकरोमि संततमूमलफालेन लालितं सा ।
उपकल्पगुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥
अङ्कुरितस्तनकोरकमङ्कालंकारमेकचूतपतेः
आलोकेमहि कोमलमागमसंल्लापसारयाथार्थ्यम् ॥ ३६ ॥
पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पि[१]ञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७॥
लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९॥
वदनारविन्दवक्षोवामाङ्कतलीवशंवदीभूता
पुरुषत्रितये त्रेधा पुरंध्रिरुपा त्वमेव कामाक्षिः ॥ ४० ॥


  1. पिञ्जरित इति पुस्तकचतुष्टयेपि छन्दोभङ्गदूषितः पाठः