कुटिलकचं कठिनकुत्रं कुन्दस्मितकान्ति कुङ्कमच्छायम्
कुरुते विह्रतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ८॥
पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ९ ॥
श्रितकम्पासीमानं शिथिलितपर[१]मेशधैर्यमहिमानम् ।
कलये पाटलिमानं कंचन कञ्चुकितभुवनभूमानम् ॥ १० ॥
आइतकाचीनिलयामायामासढयौवनाटोपाम् ।
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ११ ॥
काञ्चीरत्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् ।
परमां कलामुपासे परशिवनामाङ्कपीठिकासीनाम् ॥ १२ ॥
कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १४ ॥
अधिकाश्चि परमयोगिभिरादिमपरपीठसीन्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥
अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १६ ॥
मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अम्बुमर्यामिन्दु[२]मयीमम्वामनुकम्पमादिमामीक्षे ॥ १८ ॥