पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

श्रीकाञ्चिदेशशिशिरीकृतिजागरूका-
 ने[१] एकाम्रनाथकामनाथतरुणीकरुणावलोकान् ॥ १॥
मातर्जयन्ति ममताग्रहमोक्षणानि
 माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्रयरक्षणानि
 त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥
आनङ्तन्त्रविधिदर्शितकौशलाना-
 मानन्दमन्द[२] परिघूर्णनमन्थराणाम् ।
तारल्यमम्ब तव ताडितकर्णसीम्नां
 कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥
कल्लोलितेन करुणारसवेल्लितेन
 कल्माषितेन कमनीयमृदुस्मितेन ।
मामञ्चितेन तव किंचन कुञ्चितेन
 कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥
साहाय्यकं गतवती मुहुर[३]र्जुनस्य
 मन्दस्मितेन परितोषितभी[४] मचेता
कामाक्षि पाण्डवचभूरिव तावकीना
 कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥
अस्तं क्षणानयतु में परितापसूर्य-
 मान[५]न्दचन्द्रमसमानयतां प्रकाशम् ।


  1. एकाम्रनाथः काञ्चीपुराधिष्ठाता महेश्वरः
  2. परिघूर्णित' इति क-खपुस्तकपाठ:
  3. भीमः शिवो
    भीमसेनश्च
  4. अर्जुनस्य शौक्ल्यस्य मध्यभपाण्डवस्य च
  5. कर्णान्तिकं श्रवणसमीपं राधेयाभ्यर्णं च.