एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।
म[१]हाकविश्रीमूककृता
पञ्चशती।
कटाक्षशतकम् ।
मोहान्धकारनिवहं विनिहन्तुमीडे |
- ↑ अयं द्रविडदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमतिप्राचीन इति भाति. काशीपुराधिष्ठान्याः कामाख्या, स्तुतिरूपेय पञ्चायती विरलगचारैवास्ति जीवानन्दभट्टाचार्येण कोलकातानमरे मुद्रपितुमुपक्रान्ता. परं तेन च
कथमप्यशुद्धं शतकचतुष्टयं मुद्रयित्वा पञ्चमं शतक्रमलभमानेन संख्याधरणाय तत्र
माहिषशतकं मुद्रितम्, अन्येन तु केनचन नाद्याप्ययं प्राकाश्य नीत इत्यस्माकं मुद्रणारम्भ:, पुस्तकचतुष्टयाधारणेन चास्माकं पुस्तकशोधनोपक्रमः, तत्र
प्रथमं पञ्जाबदेशान्तर्वर्तिन्यमृतसरोनाम्नि नगरे वर्तमानानां काश्मीराभिजनानां
श्रीरामचन्द्रपण्डितानां प्रयत्नपुस्तकात्प्रतिरूपकं गृहीतं नातिशुद्धं कचिह्नितम्.
द्वितीयं जयपुरमहाराजाश्रितानां पण्डितश्रीसरयूप्रसादशर्मणां पुस्तकं प्रायः शुद्ध
नवीनं ख-चिह्नितम्. तृतीयं केरलीयसदाशिवशंकरशास्त्रिणां कश्मीरलिखितं नवीनं
शुद्धं ग-चिह्नितम्. चतुर्थं जयपुरीयजैनपाठशालाभ्याएकद्रविडकाशिनाथशास्त्रिणां
प्राचीनमिवोपलक्ष्यमाणं नातिशुद्धं घ-चिह्नितम्. अस्मिन्युस्तकचतुष्केsप्यशुद्धतामपहाय भूयान्पाठभेदो नास्ति. केवलं शतकोपन्यासभेदो वर्तते. तत्र क ख-पुस्तकयोः (१) मन्दस्मितशतकम्, (२) पादारविन्द्शतकम्, (३) आर्याशतकम् ,(४) कटाक्षशतकम्, (५)स्तुतिशतकम्, अयं क्रमोऽस्ति. गपुस्तके (१) पादारविन्द:.(२) आर्या, (३) कटाक्ष:, (४) मन्दस्मित:(५) स्तुतिः, अयं क्रमः घ-पुस्तके (१) कटाक्ष:, (२) मन्दस्मितः (३) पादारविन्द: (४) आर्या, (५) स्तुति:, अयमस्मदनुसृतः क्रमोऽस्ति.