किरीटैः संघट्टं कथमिव सुरौधस्य सहते
मुनीन्द्राणामास्ते. मनसि च कथं सूचिनिशिते ॥ ८९ ॥
मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसंचारसुभगा
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥
परिष्कुर्वन्यातः पशुपत्तिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मुकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं में परिमुषितपाथोजमहिमा ॥ ९१ ॥
प्रसूनैः संपर्कादमरतरुणीकुन्तलभवे-
रभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केल्लिप्रसरजनकत्वेन च शिवे
त्रिधा धत्ते वार्ता सुरभिरितिः पादो गिरिसुते ॥ ९२ ॥
महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
किमेवं पादोऽसौ किसलयरूचिं चोरयति ते ॥ ९३ ॥
सदा स्वादुकारं विषयलहरीशालिकणिकां
समाखाद्य श्रान्त [१]हृदयशुकपोतं जननि मे।
कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा
गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥