धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थितिनिगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन
श्विरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ १५ ॥
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥
यशः सूते मातर्मधुरकविता पक्ष्मलयते
श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
[१]प्रपन्ने कामाक्ष्याः [२]प्रणतिपरिपाटी चरणयोः ॥ ९७ ॥
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्यास्चरणतरुणादित्यकिरणः
यदीये संपर्के धृतरसमरन्दा कवयतां
-परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥
सु[३]रागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्तया शमधनजनानां परिषदा
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९९ ॥
पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।