पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
पञ्चशती।


भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
 नदः शोगाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥
धु[१]नानं पङ्कौघं परमसुलभं कण्टककुलै-
 र्विकासव्यासङ्गं विदधदपराधीनमनिशम् ।
नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा-
 मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८ ॥
[२]रीन्द्राय द्रुह्यल्यलसगतिलीलासु विमलैः
 पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं
 मुनीनां शान्तानां कथमनिशमस्मै स्पृह्यते ॥ ६९ ॥
निरस्ता शोणिन्ना चरणकिरणानां तव शिवे
 समिन्धाना संध्यारुचिरचलराजन्यतनये ।
असामर्थ्यदेतत्परिभावितुमेतत्समरुचां
 सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥
उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
 मरालानां शङ्के मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
 प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥ ७१ ॥
दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलै-
 र्द्विजाधीशश्लाघाविधिषु विदधद्भिर्गुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयो-
 र्विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥


  1. 'पुनानं' इति ग-पाठः
  2. 'करीन्द्राणां' इति ख-पाठः