जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः.
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा-
दालोकेन नि[१]हन्युरन्धत्तमसस्तोमस्य मे सं[२]ततिम् ॥ ८७ ॥
स्वाभाव्यात्तव वक्रमेव ललित संतोषसंपादनं
शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम्
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भाजते ॥ ८८ ॥
पुंभिर्निर्मलमानसैर्विदधते मैत्रीरसं निर्मलं
कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् ।
सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका-
स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥ ८९ ॥
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय
न्निन्दुं किं च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसन्संसृतिडम्बरं तव शिवे हासाइवयो मान्त्रिक
श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ ९० ॥
क्षेपीयः क्षपयन्तु कल्मषमयान्यस्माकमल्पस्मित-
ज्योतिर्मण्डलचङ्कमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मधर्मसमयच्यापारतापानल-
श्रीपता नवहर्षवर्षणसुधास्तोतस्विनीशीकराः ॥ ९१ ॥
श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिस्फूर्जति
प्रोढ्यं[३] वारिधिचातुरीं कलयते भक्तात्मनां प्रांतिभम् ।