इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवै-
र्वैकुण्ठैरवगुष्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥ ८१ ॥
श्रीकाञ्चीपुरदेवते मूदुवचःसौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्षणे कुड्मलति प्ररुढपुलके चाश्लेषणे फुल्लति ॥ ८२ ॥
किं त्रैःस्त्रोतसमम्बिके परिणतं स्त्रोतश्चतुर्थं नवं.
पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः
किंस्विन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः
श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥
भूषा वक्रसरोरुहस्य सहजा वाचां सखी शाश्वती
[१] नीची विश्रमसंततेः पशुपतेः सौधी दशां पारणा
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता,
श्रीकामाक्षि गिरामभूमिनयते हासप्रभामञ्जरी ॥ ८४ ॥
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपायोनिधेः
बाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥
उत्तुङ्गस्तनमण्डलस्य विलसलावण्यलीलानटीं-
रङ्गस्य स्फुटमू[२]र्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी
श्रीकामाक्षि तव स्मितद्युतिततिबिम्बोष्ठकान्त्यङ्कुरै-
श्चित्रां विद्रुममुद्रिका वितनुते मौ[३] क्तीं वितानश्रियम् ॥ ८६ ॥