दौर्गत्याप्रसरास्तमःपटालिकासाधर्म्यमाबिम्नते
किं किं कैरवसाह[१]चर्यपदवीरीत्यां न धत्ते पदम् ॥ १२ ॥
मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कत्तया विशङ्कय बहुशो वैशद्यमुद्रागुणः
श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥
इन्धाने भवचीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किंंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशि[२]र्यलीलाकरैः ॥ ९४॥
भाषायाः [३]रसनाग्रखेलनजुषः शृङ्गारमुद्रासखीं
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे
श्रीकामाक्षि सुधामयीन शिशिरा स्रोतस्विनी तावकी
गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथ[४]मरूल्लोलेषु येषु स्फुटं
प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥
चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल-
क्षोभे[५]व्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् ।