पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
काव्यमाला ।

भगुलुच्छं स्तबकः ॥ तस्यावेध्यादयोऽपि चत्वारो भेदाः ॥कस्तूरीकुटुमचन्दनक[१]पुरागुरुकुलकदन्तसमपटवाससहकारतलताम्बूलालतकाजनगोरोचनादिनिर्वृत्तो मण्डनद्वव्यमयः ॥ भ्रूघटनालकरचनाधम्मिल्लदधाद्वियोजनामयः ॥ द्विधा प्रकीर्णमयः ॥ जन्यनिवेश्यभेदेन । श्रगजलमधुमदादिर्जन्यः ॥ दूर्वाशोकपल्लवयवाङ्कुररजतत्रपुशतालदलदन्तपत्रिकाभृणालवलय करक्रीडनकादिर्निवेश्यः । एतत्समवायो वेषः[२] ॥ सच देशकालप्रकृत्यवस्थासात्म्येन । एतेषों विच्छित्त्वा यथास्थाननिवेशनपरमागलाभादामणीयकवृद्धिः ॥

[३]ति श्रीराजानकरुण्यविरचितायां लहृदयलीलायामलंकारोल्लेखो द्वितीयः ।


  शोभाया अनुपाणके यौवनाख्यं जीवितम् ॥ बा[४]ल्यानन्तरं गाप्राणां वैपुल्यसौष्ठवनिभक्ततावि[५] धायी स्फुटितदाडिमोपमः स्मरवसतिवस्थाभेदो यौवनम् ॥ तस्य वयःसंधिरारम्भः ॥ मध्यं तु. प्रौढिकालः ॥ प्रथम घम्मिलरचनालकमानीवीनहनदन्तपरिकर्मपरिष्करणदर्षणेक्षणपुष्पोच्चमाल्योम्भनजलक्रीडा तालीलच्छेकभणित्यनिमितलजानुभावशारशिक्षादय आवर्तमानाश्चेष्टाः ॥ अन्त्ये तु शृङ्गारानुभावतारतम्य श्रेयः ॥

[६]ति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः



  1. 'क-पूरागुरुमठवास' इति क पाठः
  2. 'वेशः' इति पुस्तकद्धयेऽपि
  3. 'इति सहृदय- इति क-पाठ सिहृदय- इति ख-पाठ ’क्षीराजानक -’ इत्यादि पुस्तकदयेऽपि नास्ति,
  4. बाल्यान्त इति ख-पाठः
  5. विधायी सदस्फुटो. दाङिमोपमः इति क पाठः
  6. अनापि पूछिलसमाक्षिका "पुस्तकट्ठये वर्तते.